Sūtra ३.२.२७

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् २० (संराधनाधिकरणम्)

Read the adhikaraṇa →

Citations (1)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः १०[वे.सू. ३.२.२७]

अत्र श्री-मध्वाचार्यानुसृतं व्याख्यानम्—उभय-व्यपदेशात् त्व् अहि-कुण्डलवत् [वे.सू. ३.२.२७] इति, सत्यं ज्ञानम् अनन्तं ब्रह्म [तै.उ. २.१.२], यः सर्वज्ञः [मु.उ. १.१.९], एष एवात्मा परमानन्दः [बृ.छा.मैत्रेयः], आनन्दं ब्रह्मणो विद्वान् [तै.उ. २.४] इत्य्-आदाव् उभय-व्यपदेशात् युज्यते ब्रह्मणो ज्ञानादित्वं ज्ञानादिमत्त्वं च । तु-शब्दः श्रुतिर् एवात्र प्रमाणम् इति निर्धारयति । अतः स्वस्मिन्न् एवाभेद-भेद-निर्देश-लक्षणोभय-व्यपदेशाद् अहि-कुण्डलवत् त्वं भवितुम् अर्हति, यथा अहिर् इत्य् अभेदः, कुण्डलाभोग-प्रांशुत्वादिभिर् भेद एवम् इहापि ।