Sūtra ३.२.२९

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् २० (संराधनाधिकरणम्)

Read the adhikaraṇa →

Citations (2)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः १०[वे.सू. ३.२.२९]

> पूर्ववद् वा [वे.सू. ३.२.२९] इति, अथवा स्वात्मना चोत्तरयोः [वे.सू. २.३.२०] इत्य् अत्रोत्तर-शब्दवद् अनन्तरम् एवोत्तरयोः प्रकाशाश्रययोः, पूर्वो यः प्रकाशः तद्वद् व मन्तव्यम् । ततश् च तस्य यथा प्रकाशैक-रूपत्वेऽपि स्व-पर-प्रकाशन-शक्तित्वम् उपलभ्यते एवं ज्ञानानन्द-स्वरूपस्य ब्रह्मणोऽपि स्व-पर-ज्ञानानन्द-हेतु-रूप-शक्तित्वम् ।

कृष्णसन्दर्भः (Krishna-sandarbha)

अनुच्छेदः ८२[वे.सू. ३.२.२९]

> इत्य्-आदिभिः शुद्ध-भजनस्योक्तत्वात् । तथापि अधियज्ञोऽहम् एवात्र देहे देह-भृतां वरः [गीता ८.४] इत्य्-आदौ च स्वस्यान्तर्यामित्वेन चोक्तत्वात् । सर्व-गुह्यतमत्व-गुह्यतरत्वयोर् अनुपपत्तिर् इति । यद् यद् एव पूर्वं सामान्यतयोक्तं तस्यैवान्ते विविच्य निर्दिष्टत्वात् । उच्यते—न तावद् भजन-तारतम्यम् । अत्र भजनीय-तारतम्यस्यापि सम्भवे गौण-मुख्य-न्यायेन भजनीय एवार्थ-सम्प्रतीतेः । मुख्यत्वं च तस्य फलम् अत उपपत्तेः [वे.सू. ३.२.२९] इति न्यायेन । विशेषतस् तु तच्-छब्देन न स्वयम् एव तद्-रूप इति मच्-छब्देन स्वयम् एवैतद्-रूप इति च भेदस्य विद्यमानत्वात्, उपदेश-द्वये निजेनौदासीन्येनावेशेन च लिङ्गेनापूर्णत्वोपलम्भात्, फल-भेद-व्यपदेशेनैव-कारेण च तद्-अर्थस्यैव पुष्टत्वाच् चसाक्षाद् एव भजनीय-तारतम्यम् उपलभ्यते । वस्तुतस् तु सर्व-भावेनेत्य् अस्य सर्वेन्द्रिय-प्रवणतयेत्य् एवार्थः । गौण-मुख्य-न्यायेनैव ज्ञान-मिश्रस्य सर्वात्मता-भावना-लक्षण-भजन-रूपार्थस्य बाधितत्वात् ।