Sūtra ३.२.३०

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् २० (संराधनाधिकरणम्)

Read the adhikaraṇa →

Citations (2)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः १०[वे.सू. ३.२.३०]

अत्र स्वयं स्वं जानातीति स्वार्था च स्फूर्तिर् इति न प्रकाशवत् पारार्थ्य-मात्रम् इति विवेक्तव्यम् । तद् एवम् उभय-व्यपदेशात् साधयित्वा श्रुत्य्-अन्तरतश् च साधयति—प्रतिषेधाच् च [वे.सू. ३.२.३०] इति ।

अनुच्छेदः १०[वे.सू. ३.२.३०]

यद् वा, ज्ञानी सृष्ट्य्-आदि-विद्या-निधिः परमेश्वरस् तस्य यन् निजं ज्ञानं, तेन परिच्छेद्या—अवगम्या सृष्टि-स्थिति-संहारादि-दर्शनात् तस्मिन् या शक्तिर् लक्ष्यते, यैव च मायेति गीयते, सा तस्य मन्त्रादि-विदाम् इव विद्या-विशेष एव । तत्-सादृश्यात् स्वाभाविकत्वं त्व् अत्र विशेषः । ततस् तस्या विद्या-विशेषत्वे, विद्यायाश् च पुरुषस्य निज-ज्ञान-धार्यत्वे, तन्-निज-ज्ञानस्य तावन्-मात्र-धारकतायाम् एवासमाप्तत्वे च वशीकृत-मायस्य परमेश्वरस्य यन् निजं ज्ञानं, तन् माया मायिकं वा न भवति । तस्मात् तेनैव स्वरूप-भूत-ज्ञानेन तद्-आत्मिका शक्तिर् लक्ष्यते—मायां तु प्रकृतिं विद्यान् मायिनं च महेश्वरं [श्वे.उ. ४.१०] इति श्रुतेः । इदं वा एकस्मिन्न् एव स्वरूपे ज्ञानीति ज्ञानम् इति च परिच्छेद्यं यया सा । पूर्ववद् वा [वे.सू. ३.२.३०] इति न्यायात् । स भगवः कस्मिन् प्रतिष्ठित इति ? स्वे महिम्नि [छा.उ. ७.२४.१] इति श्रुतेः । इत्थं वा, ज्ञानी विद्वान्, तस्य ज्ञानेनानुभवेन परिच्छेद्या अवगम्या । वैकुण्ठादिषु श्री-भगवतस् तत्-तन्-निज-वैभवानां शुद्धानन्द-विलास-मात्रतां प्रति प्रमाणेन विद्वद्-अनुभवेनैव प्रमेयेत्य् अर्थः, ते ध्यान-योगानुगता अपश्यन्, देवात्म-शक्तिं स्व-गुणैर् निगूढां [श्वे.उ. १.३] इति श्रुतेः । तद् एवम् अन्तरङ्गापर-पर्याया स्वरूप-शक्तिर् दर्शिता ।