Sūtra ३.३.११
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ३२ (सर्वाभेदाधिकरणम्)
Read the adhikaraṇa →Citations (2)
भागवतसन्दर्भः (Bhagavat-sandarbha)
ततश् च तत्र तत्र पार्थक्येनोदयाद् अस्त्य् एव स्वरूप-धर्म-भेदः । तत्रापि नीलाद्य्-आकार-वृत्तौ पार्थक्यम् अतिस्फुटम् एव । यदि तत्र जड-प्रतियोगिता-दुःख-प्रतियोगितयोर् भेदो न स्यात्, तदा तस्याम् अपि वृत्तौ सुखम् उपलभ्यतैव स्वगतैक-देशानङ्गीकृतेतरेक-देशोदय-विरोधात् । अत एव आनन्दादयः प्रधानस्य [वे.सू. ३.३.११] इति भेदेनाप्य् उपक्रान्तवन्तः सूत्रकाराः ।
अत एव तृतीये अध्याये तृतीय-पादे सूत्र-कारैर् अपि, आनन्दादयः प्रधानस्य [वे.सू. ३.३.११] इत्य् अनेनानन्दादीनाम् एकत्रोक्तानाम् अपि सर्वत्रोपासनायां समाहृतिश् चिन्तिता । प्रियादीनां तु सा परिहृता । प्रिय-शिरस् त्व् आद्य-प्राप्तिर् उपचयापचयौ हि भेदे [वे.सू. ३.३.१२] इत्य् अनेन तत्रैकस्यैवान्नमयादि-क्रमोपासकस्य उपासना भूमिकारोह-स्थान-भेदे हि प्रियादि-शब्दस् तस्यैव आनन्द-मयस्य ब्रह्मणः उदयोपचयापचयौ विवक्षितौ । ततो नान्यत्रोपासनायां तेषाम् आनन्दामयः प्रधानस्य इति न्यायेन प्राप्तिर् इत्य् अर्थः ।