Sūtra ३.३.१६
Cited in the sources as वे.सू.
Govinda-bhāṣya
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ३४ (प्रिय-शिरस्त्वाद्य्-अप्राप्त्य्-अधिकरणम्)
Read the adhikaraṇa →Citations (1)
परमात्मसन्दर्भः (Paramatma-sandarbha)
अनुच्छेदः १०६[वे.सू. ३.३.१६]
कस्मै येन विभासितोऽयम् इत्य्-आदि-दर्शितम् तस्य तादृश-विशेषवत्त्वादिकम् । यथैव आत्म-गृहीतिर् इतरवद् उत्तरात् [वे.सू. ३.३.१६] इत्य् अत्र शङ्कर-शारीरकस्यापरस्यां योजनायाम् उपक्रमोक्तस्य सच्-छब्द-वाच्यस्यात्मत्वम् उपसंहार-स्थाद् आत्म-शब्दाल् लभ्यते । तद्वद् इहापि चतुःश्लोकी-वक्तुर् भगवत्त्वं, दर्शितं च श्री-व्यास-समाधाव् अपि तस्यैव ध्येयत्वम् । तद् एव च स्व-सुख-निभृत- [भा.पु. १२.१२.६९] इत्य्-आदि श्री-शुक-हृदयानुगतम् इति ।