Sūtra ३.३.५०
Cited in the sources as वे.सू.
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ५६ (विद्याधिकरणम्)
Read the adhikaraṇa →Citations (2)
भागवतसन्दर्भः (Bhagavat-sandarbha)
तथैवाक्रूरेण स्तुतं बहु-मूर्त्य्-एक-मूर्तिकम् [भा.पु. १०.४०.७] इति । तथा श्रुतिः—एकं सन्तं बहुधा दृश्यमानम् इति । ततो यदा यादृशं येषाम् उपासना-फलोदय-भूमिकावस्थानं, तदा तथैव ते पश्यन्ति । तथा च—प्रज्ञान्तर-पृथक्त्ववद् दृष्टिश् च तद् उक्तिं [वे.सू. ३.३.५०] इत्य् अत्र ब्रह्म-सूत्रे मध्व-भाष्यम्—उपासना-भेदाद् दर्शन-भेद इति । दृष्टान्तश् च—यथैकम् एव पट्ट-वस्त्र-विशेष-पिच्छावयव-विशेषादि-द्रव्यं नाना-वर्णमय-प्रधानैक-वर्णम् अपि कुतश्चित् स्थान-विशेषाद् दत्त-चक्षुषो जनस्य केनापि वर्ण-विशेषेण प्रतिभातीति । अत्राखण्ड-पट्ट-वस्त्र-विशेषादि-स्थानीयं निज-प्रधान-भासान्तर्-भावित-तत्-तद्-रूपान्तरं श्री-कृष्ण-रूपं, तत्-तद्-वर्ण-च्छवि-स्थानीयानि रूपान्तराणीति ज्ञेयम् । यथा श्री-नारद-पञ्चरात्रे—
कृष्णसन्दर्भः (Krishna-sandarbha)
अथवा, कृष्णस् त्व् इति श्रुत्या प्रकरणस्य बाधात् । यथा शङ्कर-शारीरिके भाष्ये श्रुत्य्-आदि-बलीयस्त्वाच् च न बाधः [वे.सू. ३.३.५०] इति सूत्रे, ते हैते विद्याचित एव इति श्रुतिर् मनश्चिद्-आदीनाम् अग्नीनां प्रकरण-प्राप्तं क्रियानुप्रवेश-लक्षणम् अस्वातन्त्र्यं बाधित्वा विद्याचित्त्वेनैव स्वातन्त्र्यं स्थापयति, तद्वद् इहापीति । अत एतत्-प्रकरणेऽप्य् अन्यत्र क्वचिद् अपि भगवच्-छब्दम् अकृत्वा, तत्रैव भगवान् अहरद् भरम् [भा.पु. १.३.२३] इत्य् अनेन कृतवान् ।