Sūtra ४.१.३

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् २ (आत्मत्वोपासनाधिकरणम्)

Read the adhikaraṇa →

Citations (1)

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ३७[वे.सू. ४.१.३]

अत एव, आत्मेति तूपगच्छन्ति ग्राहयन्ति च [वे.सू. ४.१.३] इति सूत्रकारः । आत्मेत्य् एव गृह्णीयात् इति च वाक्य-कारः । अत्रापि, अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि [छा.उ. ६.३.२] इति ब्रह्मात्मक जीवानुप्रवेशेनैव सर्वेषां वस्तुत्वं शब्द-वाच्यत्वं च प्रतिपादितम् । तद् अनुप्रविश्य सच् च त्यच् चाभवत् [तै.उ. २.६.२] इत्य् अनेनैकार्थ्याज् जीवस्यापि ब्रह्मात्मकत्वं ब्रह्मानुप्रवेशाद् एवेत्य् अवगम्यते । तस्माद् ब्रह्म-व्यतिरिक्तस्य कृत्स्नस्य तच्-छरीरत्वेनैव वस्तुत्वात् तस्य प्रतिपादकः शब्दस् तत्-पर्यन्तम् एव स्वार्थम् अभिदधाति । अतः सर्व-शब्दानां लोक-व्युत्पत्त्य्-अवगत-तत्-पदार्थ-विशिष्ट-ब्रह्माभिधायित्वं सिद्धम् इति । ऐतदात्म्यम् इदं सर्वम् इति प्रतिज्ञातार्थस्य तत् त्वम् असि इति सामानाधिकरण्येनाविशेष उपसंहारः । मध्यम-पुरुषस् तु युष्मच्-छब्द-योगेन स्याद् एवेति ।