Sūtra ४.१.१२

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ८ (आप्रमाणाधिकरणम्)

Read the adhikaraṇa →

Citations (2)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः ७९[वे.सू. ४.१.१२]

> मुक्तानाम् अपि भक्तिर् हि नित्यानन्द-स्वरूपिणी इति भारत-तात्पर्ये प्रमाणिता श्रुतिश् च । तथा आ प्रायणात् तत्रापि हि दृष्टम् [वे.सू. ४.१.१२] इत्य् अत्र च मध्व-भाष्य-प्रमाणिता सौपर्ण-श्रुतिः—सर्वदैनम् उपासीत यावन्-मुक्ति मुक्ता ह्य् एनम् उपासत इति ।

कृष्णसन्दर्भः (Krishna-sandarbha)

अनुच्छेदः ७४[वे.सू. ४.१.१२]

तथा च यस्याभ्यासस् तद् एव शास्त्रे प्रधानम् इत्य् आनन्दमयोऽभ्यासात् [वे.सू. ४.१.१२] इत्य् अत्र परैर् अपि समर्थितत्वाद् इहापि श्री-कृष्ण एव प्रधानं भवेद् इतीति तस्यैव मूल-भगवत्त्वं सिध्यति । यत्-प्रतिपादकत्वेनास्य शास्त्रस्य भागवतम् इत्य् आख्या । अपि च न केवलं बहुत्र सूचन-मात्रम् अत्राभ्यासनम्, अपि त्व् अर्धाद् अप्य् अधिको ग्रन्थस् तत्-प्रस्तावको दृश्यते, तत्रापि सर्वाश्चर्यतया । तस्मात् साधूक्तम् एते चांस-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् [भा.पु. १.३.२८] इति ।