Sūtra ४.१.१३

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ९ (तद्-अधिगमाधिकरणम्)

Read the adhikaraṇa →

Citations (1)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः ७९[वे.सू. ४.१.१३]

इदानीं स्वापराधं द्योतयन्तो भक्तिं प्रार्थयन्ते—कामम् [३.१५.४९] इति । हे भगवन् ! अतः पूर्वम् अस्माकं वृजिनं नाभवत् । इदानीं तु सर्वाण्य् अपि जातानि, यतस् त्वद्-भक्तौ शप्तौ । अतस् तैर् वृजिनैर् निरयेषु कामं नोऽस्माकं भवो जन्म स्यात् । अनेन, तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [वे.सू. ४.१.१३] इति न्यायेनासम्भव-तद्-भावानां ब्रह्म-ज्ञानिनाम् अपि स्वेषां बहु-नरक-कारि-वृजिनापात-क्षमापणेन तयोर् इत्थम्भूत-गुणो हरिः [भा.पु. १.७.११] इतिवत् सर्वाद्भुत-महत्तमत्वं सूचितम् । अहो निरया अपि भवेयुर् एव, न तावतापि पर्याप्तं, तेभ्यश् च नास्माकम् अपि भयम् ।