Sūtra ४.४.१९

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ४८ (जगद्-व्यापार-वर्जाधिकरणम्)

Read the adhikaraṇa →

Citations (1)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः ७२[वे.सू. ४.४.१९]

श्री-पार्षदाभ्याम् अपि—आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् [भा.पु. ४.१२.२६] इति । श्री-सुतेन च—ध्रुवस्य वैकुण्ठ-पदाधिरोहणम् [भा.पु. ४.१३.१] इति । पञ्चमे ज्योतिश्-चक्र-वर्णने च—विष्णोर् यत् परमं पदं प्रदक्षिणं प्रक्रामन्ति इति [भा.पु. ५.२२.१७] । यद् विष्णोः परमं पदम् अभिवदन्ति [भा.पु. ५.२३.१] इति च । प्रपञ्चान्तर्गतत्वेऽपि तद्-धर्मम् उक्तत्वं, विकारावर्ति च तथा हि स्थितिम् आह [वे.सू. ४.४.१९] इति न्यायेन ।