Sūtra ४.४.५

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ४४ (ब्राह्माधिकरणम्)

Read the adhikaraṇa →

Citations (1)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः १०[वे.सू. ४.४.५ माध्व-भाष्य-धृता श्रुतिः]

इति चतुर्वेद-शिखायां [वे.सू. २.१.३० माध्व-भाष्य-धृतायाम्], अश्रुतं श्रोतृ अदृष्टं द्रष्टृ इत्य् आदिर् अन्यत्र [बृ.आ.उ. ३.७.२७, ३.८.११, वे.सू. १.३.१० धृत-माध्व-भाष्य-धृतायाम्] । अत एव ब्रह्म-सायुज्य-प्रतिपादिका माध्यन्दिन-श्रुतिर् अपि तस्य सर्व-शक्तिमत्त्वं स्वरूप-सिद्धम् एवेत्य् अङ्गीकरोति, स वा एष ब्रह्म-निष्ठ इदं शरीरं मर्त्यम् अतिसृत्य ब्रह्माभिसम्पद्य ब्रह्मणा पश्यति, ब्रह्मणा शृणोति, ब्रह्मणैवेदं सर्वम् अनुभवति [वे.सू. ४.४.५ माध्व-भाष्य-धृता श्रुतिः] इति । एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञा च तथैव कल्प्यते, येनाश्रुतं श्रुतं भवत्य् अमतं मतम् अविज्ञातं विज्ञातं [छा.उ. ६.१.३] इति वाक्यान्तरं च । सर्वस्य तादृश-तन्-निज-शक्ति-वृन्दानुगतत्वान् निर्विशेष-वस्तु-ज्ञाने सर्व-ज्ञानासम्भवाच् च । अत एव स ब्रह्म-विद्यां सर्व-विद्या-प्रतिष्ठाम् अथर्वाय ज्येष्ठ-पुत्राय प्राह [मु.उ. १.१.१] इति चान्यत्र, यथा, सोम्यैकेन मृत्-पिण्डेन सर्वं मृण्-मयं विज्ञातं [छा.उ. ६.१.४] इति दृष्टान्तोऽपि । एकस्मिन् मृत्-पिण्डे घट-शरावादि-विकारान् आविर्भाव्य, दर्शनया तत्-तद्-विज्ञान-सम्भवात् सत्-कार्य-वादाङ्गीकाराच् च । मृद्-विकारस्य रज्जु-सर्पादिवद् असत्यत्वं शुश्रूषोर् असिद्धम् इति विवर्त-वादश् च न तच्-छ्रुति-स्वारम्य-सिद्धः । तस्मात् साधूक्तं श्री-पराशरेण—सर्व-शक्ति-निलये [वि.पु. ६.८.५७] इति ।