Sūtra १.१.१५

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ६ (आनन्दमयाधिकरणम्)

Read the adhikaraṇa →

Citations (2)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः १०[वे.सू. १.१.१५]

किं च, आनन्द-शब्देन तत्र शुद्ध-ब्रह्मैव मतं तस्य च विकारो न सम्भवति । तस्मान् न विकारार्थता-प्राप्तिः । हेत्व्-अन्तरेण सूत्रयति—तद्-धेतु-व्यपदेशाच् च [वे.सू. १.१.१५] इति । इतश् च प्राचुर्यार्थे मयट्, न तु विकारार्थे । यस्माद् आनन्द-हेतुत्वं तस्यैवोपदिशति श्रुतिः—एष ह्य् एवानन्दयति [तै.उ. २.७] इति आनन्दयतीत्य् अर्थः । यथा, लोके प्रचुर-प्रकाश-लक्षणः सूर्यादिर् एव सर्वं प्रकाशयति, न तुच्छ-प्रकाश-लक्षण-क्षुद्र-तारकादिः ।

अनुच्छेदः १०[वे.सू. १.१.१५]

ननु पुच्छे ब्रह्म-शब्द-संयोगात् तस्य ब्रह्मेति संज्ञा युक्ता । कथं नामानन्द-मयस्य तत्-संज्ञा ? तत्रापि सूत्रयति—मान्त्र-वर्णिकम् एव च गीयते [वे.सू. १.१.१५] इति । सत्यं ज्ञानम् अनन्तं ब्रह्म [तै.उ. २.१] इति मन्त्र-वर्णोदितं ब्रह्मैवान्न-मयादित्वेन गीयते तद्-अधिकार-पतितत्वात् ।