Sūtra १.१.१६

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् ६ (आनन्दमयाधिकरणम्)

Read the adhikaraṇa →

Citations (3)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः १०[वे.सू. १.१.१६]

एवं नेतरोऽनुपपत्तेः [वे.सू. १.१.१६] इत्य् आदि-सूत्राण्य् अपि आनन्द-मयस्य जीवत्व-निषेध-पराणीति । तस्य पर-ब्रह्मत्वम् एव तैः साध्यते इत्य् अलम् अतिविस्तरेण ॥

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ३७[वे.सू. १.१.१६]

अत एव शङ्कर-शारीरकेऽपि, अम्बुवद् अग्रहणात् तु न तथात्वं [वे.सू. ३.२.१९] इत्य् अनेन न्यायेन प्रतिबिम्बत्वं विरुध्य, वृद्धि-ह्रास-भाक्त्वम् अन्तर्भावाद् उभय-सामञ्जस्याद् एवं [वे.सू. ३.२.२०] इति न्यायेन प्रतिबिम्ब-सादृश्यम् एव स्थाप्यते । तच् च प्रतिबिम्बत्वम् एवाभासीकरोति । अतः, आभास एव च [वे.सू. २.३.५०] इत्य् अत्रापि तद्वद् एव मन्तव्यम् । प्रतिबिम्बाभासस् तु तत्-तुल्यः, न तु वस्तुतः प्रतिबिम्ब एवेत्य् अर्थः । तस्मात् तत्-तद्-असद्-भावाद् ब्रह्मणो भिन्नान्य् एव जीव-चैतन्यानीत्य् आयातम् । अतो—नेतरोऽनुपपत्तेः [वे.सू. १.१.१६] इति, भेद-व्यपदेशाच् च [वे.सू. १.१.१६] इतीमे सूत्रे कल्पना-मय-भेद-व्याख्यया न सङ्गच्छते । वास्तव-भेदे तु, स तपोऽतप्यत, स तपस् तप्त्वा इदं सर्वम् असृजत यद् इदं किं च [तै.उ. २.६.२] इत्य्-आदेः । रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति [तै.उ. २.६.२] इत्य् आदेश् च विषय-वाक्यस्य पीडनं न स्यात् । तपोऽतप्यत इति तपः, बहु स्याम् इत्य्-आदि ज्ञानं प्राकाश्यद् इत्य् अर्थः । नान्योऽतोऽस्ति द्रष्टा [बृ.आ.उ. ३.७.२३] इत्य्-आदि-श्रुतिस् तु पूर्ववत् सम्भावितं तद्-ऊर्ध्वम् अन्यं द्रष्टारं निषेधति । स कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः [श्वे.उ. ६.९] इतिवद् ईश्वराद् अन्यं प्रकृति-सृष्ट्य्-अर्थेक्षण-कर्तारं वा निषेधति । तद् उक्तंअं शङ्कर-शारीरकेऽपि । यत् त्व् ईक्षण-श्रवणम् अप्-तेजसोस् तत् परमेश्वरावेश-वशाद् एव द्रष्टव्यम् । नान्योऽतोऽस्ति द्रष्टा [बृ.आ.उ. ३.७.२३] इतीक्षित्र्-अन्तर-प्रतिषेधात्, प्रकृतत्वाच् च । स्वत ईक्षितुः, तद् ऐक्षत [छा.उ. ६.२.३] इत्य् अत्रेति । एवं विवक्षित-गुणोपपत्तेश् च [वे.सू. १.२.२] इति, अनुपपत्तेस् तु न शारीरः [वे.सू. १.२.३] इत्य् अनयोः पारमर्थिक एव जीवाद् अधिकः परमेश्वर विवक्षितो गुण-समुदाय उपपद्यते । जीवे तु नोपपद्यते ।