Sūtra २.२.३८

Cited in the sources as ब्र.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् २७ (पत्य्-अधिकरणम्)

Read the adhikaraṇa →

Citations (1)

तत्त्वसन्दर्भः (Tattva-sandarbha)

अनुच्छेदः ११[ब्र.सू. २.२.३८]

इदं प्रतिपाद्यस्याचिन्त्यत्वे एव युक्ति-दूरत्वं व्याख्यातम्—अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् [म.भा. ६.६.११, स्कन्दे च] इत्य्-आदि-दर्शनेन । चिन्त्यत्वे तु युक्तिर् अप्य् अवकाशं लभते, चेल् लभताम्, न तत्रास्माकम् आग्रह इति सर्वथा वेदस्यैव प्रामाण्यम् । तद् उक्तं शङ्कर-शारीरकेऽपि—"आगम-बलेन ब्रह्म-वादी कारणादि-स्वरूपं निरूपयति, नावश्यं तस्य [अनुमानस्य] यथा-दृष्टं सर्वम् अभ्युपगतं मन्तव्यम्" [ब्र.सू. २.२.३८] इति ।