Sūtra २.२.४१

Cited in the sources as वे.सू.

Govinda-bhāṣya

Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:

अधिकरणम् २७ (पत्य्-अधिकरणम्)

Read the adhikaraṇa →

Citations (3)

भागवतसन्दर्भः (Bhagavat-sandarbha)

अनुच्छेदः २९[वे.सू. २.२.४१]

किं च, श्यामाच् छबलं प्रपद्ये [छा.उ. ८.१३.१] सुवर्ण-ज्योतिः इति । तस्य हैतस्य चत्वारि रूपाणि शुक्लं रक्तं रौक्मं कृष्णं [तै.आ. ३.१०.६] इति, यदा पश्यः पश्यते रुक्म-वर्णं कर्तारम् ईशं पुरुषं ब्रह्म-योनिं [मु.उ. ३.१.३], स ऐक्षत [ऐ.उ. १.१.१, बृ.आ.उ. १.२.५] इति । सर्वेऽनिमेषाजज्ञिरे विद्युतः पुरुषादधि [म.ना.उ. १.८] इति । स चक्षुषा पश्यति रूपम् अस्य [म.ना.उ. १.११] इति, यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वां [मु.उ. ३.२.३, क.उ. २.१.३] इति । बुद्धि-मत्ताङ्ग-प्रत्यङ्गवत्तां भगवतो लक्षयामहे, बुद्धिमान् मनोवान् अङ्ग-प्रत्यङ्गवान् इत्य्-आद्यैः, प्रकाशवच् चावैयर्थ्यात् [वे.सू. २.२.४१], रूपोपन्यासाच् च [वे.सू. १.२.२३] इत्य् आदौ माध्व-भाष्यादि-प्रमाणितैर् वेदैः—पश्यते, विवृणुते, लक्षयामहे इत्य् आद्य् अभ्यस्त-विद्वत्-प्रत्यक्ष-पक्षपात-बलवत्तरैर् विरोधात्, अपाणि-पादादि-वेदानां न तथार्थः सङ्गच्छते इति न तावत् तस्यारूपत्वं प्रतिपादितम् ॥

परमात्मसन्दर्भः (Paramatma-sandarbha)

अनुच्छेदः ५८[वे.सू. २.२.४१]

न चेत्थं सावयवत्वेनानित्यत्वं मन्तव्यः—तादृश-वैलक्षण्यात्, सर्व-कारणत्वात्, श्रुति-शब्द-मूलाद् एव नित्यत्वाच् च । तद् उक्तं माध्व-भाष्ये [वे.सू. २.२.४१]—अन्तवत् त्वम् असर्वज्ञता वा इत्य् अत्र विष्णोस् तु श्रुत्यैव सर्वे विरोधाः परिहृताः [वे.सू. २.२.४१] यद्-आत्मको भगवांस् तद्-आत्मिका व्यक्तिः इत्य् आदिकया, बुद्धिर् मनोऽङ्ग-प्रत्यङ्गवत्तां भगवतो लक्षयामहे इत्य् आदिकया, सद्-देहः सुख-गन्धश् च इत्य् आदिकया च ।