Sūtra २.२.४२
Cited in the sources as वे.सू.
Govinda-bhāṣya
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् २८ (उत्पत्त्य्-असम्भवाधिकरणम्)
Read the adhikaraṇa →Citations (1)
परमात्मसन्दर्भः (Paramatma-sandarbha)
अनुच्छेदः १०५[वे.सू. २.२.४२]
ननु ब्रह्म-सूत्रेष्व् एव ते पाञ्चरात्रा दोषाः सूच्यन्ते, उत्पत्त्य्-असम्भवात् [वे.सू. २.२.४२] इत्य् आदिषु ? मैवम् । तानि हि सूत्राणि श्री-मध्वाचार्यादिभिः शाक्त-मत-दूषणायैव विवृतानीति । किं च, ताः पाञ्चरात्रिक-प्रक्रिया भगवता श्री-बादरायणेनैव स्वयं पुराणादिषु दर्शिताः । वासुदेवादि-व्यूहानां शतशस् तथैवाभ्युपपत्तेः । श्रुतिष्व् अपि ताः प्रक्रियाः शतशो दृश्यन्ते । तथैकस्य गुण-गुणि-रूपत्वम् अपि श्री-विष्णु-पुराणादौ तद्वद् एवाङ्गीक्रियते—