Sūtra २.३.४
Cited in the sources as वे.सू.
Govinda-bhāṣya
Baladeva Vidyābhūṣaṇa's own commentary quotes and explains this sūtra directly, at:
अधिकरणम् ३३ (वियद्-उत्पत्त्य्-अधिकरणम्)
Read the adhikaraṇa →Citations (1)
कृष्णसन्दर्भः (Krishna-sandarbha)
अनुच्छेदः १४५[वे.सू. २.३.४]
तर्ह्य् एतादृश-लीलया कथं नॄणां निःश्रेयसं भवति ? उच्यते । एतद्-बोधनेन भवतीत्य् आह—कामम् [भा.पु. १०.२९.१५] इति । अत्र तन्-मयता-शब्देन तत्-प्रचुरतोच्यते । तत्र काम-स्नेहादिषु तद्-अनुरक्तात्मतेति पर्यवसानं, स्त्रीमयो जाल्म इतिवत् । क्रोध-भयैक्येषु ते प्रायस् तत्-प्रलीनतेति दुग्ध-मयं जलम् इतिवत् । एकस्यैव शब्दस्य विशेषण-वशाद् अर्थ-भेदश् च युज्यते, स्याच् चैकस्य ब्रह्म शब्दवद् [वे.सू. २.३.४] इति न्यायेन । “क्रोध-भययोर्” अत्र पठनम् अन्येषु कैमुत्यापादनायैव, न तु तद्-उपदेश-विवक्षया ।